IMPORTANT NOTICE

ALL STUDY DATA UPLOAD SOON...

मात्राशितीयोऽध्यायः

 5.

मात्राशितीयोऽध्यायः



अथातो मात्राशितीयमध्यायं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

मात्राशी स्यात्|

आहारमात्रा पुनरग्निबलापेक्षिणी||३||

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति||४||

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति|

तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते||५||

न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति; पृथ्वीसोमगुणबहुलानीतराणि, तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि, गुरूणि पुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यात्, अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्; सैषा भवत्यग्निबलापेक्षिणी मात्रा||६||

न च नापेक्षते द्रव्यं; द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते, लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम्||७||

मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति||८||

भवन्ति चात्र-

गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि|

न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः||९||

वल्लूरं शुष्कशाकानि शालूकानि बिसानि च|

नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत्||१०||

कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे|

मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत्||११||

षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्|

आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत्||१२||

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते|

अजातानां विकाराणामनुत्पत्तिकरं च यत्||१३||

अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्|

स्वस्थवृत्तिमभिप्रेत्य गुणतः सम्प्रवक्ष्यते||१४||

सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्|

पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम्||१५||

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्|

ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्||१६||

दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्|

विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति||१७||

तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते|१८|

यथा हि कनकादीनां मलिनां विविधात्मनाम्||१८||

धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः|

एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः||१९||

दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्|२०|

हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्||२०||

ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्|

ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्||२१||

न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः|

वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले||२२||

श्रीवेष्टकं शल्लकीं च शुकबर्हमथापि च|

पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्||२३||

अङ्गुष्ठसम्मितां कुर्यादष्टाङ्गुलसमां भिषक्|

शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः||२४||

स्नेहाक्तामग्निसम्प्लुष्टां पिबेत् प्रायोगिकीं सुखाम्|२५|

वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः||२५||

वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्|२६|

श्वेता ज्योतिष्मती चैव हरितालं मनःशिला||२६||

गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने |२७|

गौरवं शिरसः शूलं पीनसार्धावभेदकौ||२७||

कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः|

दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः||२८||

पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः|

हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे||२९||

श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका|

खालित्यं पिञ्जरत्वं च केशानां पतनं तथा||३०||

क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता|

धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम्||३१||

शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च|

न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः||३२||

धूमवक्त्रकपानस्य व्याधयः स्युः शिरोगताः|३३|

प्रयोगपाने तस्याष्टौ कालाः सम्परिकीर्तिताः||३३||

वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते|

स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च|

नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्|

तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः||३५||

रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः|३६|

परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान्||३६||

प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत्|

हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः||३७||

यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्|३८|

बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्||३८||

अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्|

तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्||३९||

स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि|

शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम्||४०||

परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः|

न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि||४१||

न रक्ती न विषेणार्तो न शोचन्न च गर्भिणी|

न श्रमे न मदे नामे न पित्ते न प्रजागरे||४२||

न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते|

न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम्||४३||

धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्ध एव च|

न तालुशोषे तिमिरे शिरस्यभिहिते न च||४४||

न शङ्खके न रोहिण्यां न मेहे न मदात्यये|

एषु धूममकालेषु मोहात् पिबति यो नरः||४५||

रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्|४६|

धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये||४६||

घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्|

आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत्||४७||

प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी|४८|

ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम्||४८||

पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्|४९|

चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने||४९||

द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते|

ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्||५०||

बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते|५१|

दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः||५१||

नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः|५२|

यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्||५२||

कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्|

अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्||५३||

स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्|

तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते||५४||

तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्|

शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते||५५||

इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते|५६|

वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्||५६||

प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले|

नस्यकर्म यथाकालं यो यथोक्तं निषेवते||५७||

न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते|

न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः||५८||

न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः|

मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः||५९||

पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति|

सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः||६०||

नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्|

मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्||६१||

सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्|

न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः||६२||

जीर्यतश्चोत्तमाङ्गेषु जरा न लभते बलम्|६३|

चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||६३||

प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्|

ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्||६४||

जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम्|

हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||६५||

विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि|

तैलाद्दशगुणं शेषं कषायमवतारयेत्||६६||

तेन तैलं कषायेण दशकृत्वो विपाचयेत्|

अथास्य दशमे पाके समांशं छागलं पयः||६७||

दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः|

अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम्||६८||

स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः|

त्र्यहात्त्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत्||६९||

निवातोष्णसमाचारी हिताशी नियतेन्द्रियः|

तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम्||७०||

प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्|७१|

आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्||७१||

भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्|

निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्||७२||

निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्|

करञ्जकरवीरार्कमालतीककुभासनाः||७३||

शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः|

सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च||७४||

जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च|

जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च||७५||

दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्|७६|

धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता||७६||

जातीकटुकपूगानां लवङ्गस्य फलानि च|

कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा|

तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च||७७||

हन्वोर्बलं स्वरबलं वदनोपचयः परः|

स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा||७८||

न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्|

न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च||७९||

न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च|

परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्||८०||

नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते|

न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||८१||

बलं शिरःकपालानां विशेषेणाभिवर्धते|

दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च||८२||

इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम् |

निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्||८३||

न कर्णरोगा वातोत्था न मन्याहनुसङ्ग्रहः|

नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्||८४||

स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्|

भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा||८५||

तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते|

प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||८६||

स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्|

त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः||८७||

न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः|

विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्||८८||

सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः|

भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च||८९||

खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः|

सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||९०||

जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः|

दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति||९१||

न च स्याद्गृध्रसीवातः पादयोः स्फुटनं न च|

न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः||९२||

दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्|

स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||९३||

पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम् |

शरीरबलसन्धानं स्नानमोजस्करं परम्||९४||

काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्|

श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||९५||

वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्|

सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||९६||

धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्|

हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्||९७||

मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्|

पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः||९८||

पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्|

केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्||९९||

चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्|

बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||१००||

ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम्|

घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते||१०१||

स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्|

अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्||१०२||

नगरी नगरस्येव रथस्येव रथी यथा|

स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्||१०३||

भवति चात्र-

वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः|

शममध्ययनं चैव सुखमेवं समश्नुते||१०४||

तत्र श्लोकाः-

मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्|

द्रव्याणां गर्हितोऽभ्यासो येषां, येषां च शस्यते||१०५||

अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना|

धूमपानगुणाः कालाः पानमानं च यस्य यत्||१०६||

व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः|

पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम्||१०७||

नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा|

भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत्||१०८||

यदर्थं यानि चास्येन धार्याणि कवलग्रहे|

तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये||१०९||

कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने|

स्नाने वाससि शु

द्धे च सौगन्ध्ये रत्नधारणे||११०||

शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे|

गुणा मात्राशितीयेऽस्मिंस्तथोक्ता दण्डधारणे||१११||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः||५||

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Ok, Go it!