IMPORTANT NOTICE

ALL STUDY DATA UPLOAD SOON...

त्रिशोथीयोऽध्यायः

18.
त्रिशोथीयोऽध्यायः



अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन||३||
तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते||४||
ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः; बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते||५||
निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वा छर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वा छर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधान्यानूपौदक- पिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसम्पीडनादामगर्भप्रपतनात् प्रजातानां च मिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः||६||
अयं त्वत्र विशेषः- शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोफं जनयति; स क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णो वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते सङ्कुच्यत आयम्यत इवेति वातशोथः (१);
उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्मांसशोणितान्यभिभूय शोथं जनयति; स क्षिप्रोत्थानप्रशमो भवति, कृष्णपीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत इति पित्तशोथः (२);
गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च श्लेष्मा प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति; स कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथः (३);
यथास्वकारणाकृतिसंसर्गाद्द्विदोषजास्त्रयः शोथा भवन्ति; यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एकः; एवं सप्तविधो भेदः||७||
प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च शोथ उपलभ्यते, पुनश्चैक एवोत्सेधसामान्यात्||८||
भवन्ति चात्र-
शूयन्ते यस्य गात्राणि स्वपन्तीव रुजन्ति च|
पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्||९||
यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति|
स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः||१०||
यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते|
स्विद्यति क्लिद्यते गन्धी स पैत्तः स्वयथुः स्मृतः||११||
यः पीतनेत्रवक्त्रत्वक् पूर्वं मध्यात् प्रशूयते|
तनुत्वक् चातिसारी च पित्तशोथः स उच्यते||१२||
शीतः सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव च|
निपीडितो नोन्नमति श्वयथुः स कफात्मकः||१३||
यस्य शस्त्रकुशच्छिन्नाच्छोणितं न प्रवर्तते|
कृच्छ्रेण पिच्छा स्रवति स चापि कफसम्भवः||१४||
निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः|
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः||१५||
यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्|
जन्तोः स च सुकष्टः स्यात् प्रसृतः स्त्रीमुखाच्च यः||१६||
यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा|
स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः||१७||
छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च|
सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसङ्ग्रहः||१८||
यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते|
आशु सञ्जनयेच्छोथं जायतेऽस्योपजिह्विका||१९||
यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते|
आशु सञ्जनयेच्छोफं करोति गलशुण्डिकाम्||२०||
यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते|
शनैः सञ्जनयेच्छोफं गलगण्डोऽस्य जायते||२१||
यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः|
आशु सञ्जनयेच्छोफं जायतेऽस्य गलग्रहः||२२||
यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति|
शोफं सरागं जनयेद्विसर्पस्तस्य जायते||२३||
यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते|
शोथं सरागं जनयेत् पिडका तस्य जायते||२४||
यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति|
तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते||२५||
यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते|
श्वयथुः शङ्खको नाम दारुणस्तस्य जायते||२६||
यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते|
ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते||२७||
वातः प्लीहानमुद्धूय कुपितो यस्य तिष्ठति|
शनैः परितुदन् पार्श्वं प्लीहा तस्याभिवर्धते||२८||
यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते|
शोफं सशूलं जनयन् गुल्मस्तस्योपजायते||२९||
यस्य वायुः प्रकुपितः शोफशूलकरश्चरन्|
वङ्क्षणाद्वृषणौ याति वृद्धिस्तस्योपजायते||३०||
यस्य वातः प्रकुपितस्त्वङ्मांसान्तरमाश्रितः|
शोथं सञ्जनयेत् कुक्षावुदरं तस्य जायते||३१||
यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति|
नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते||३२||
रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः|
विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसङ्ग्रहे||३३||
वातपित्तकफा यस्य युगपत् कुपितास्त्रयः|
जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः||३४||
जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः|
तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत्||३५||
त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्|
कुशलेन त्वनुक्रान्तः क्षिप्रं सम्पद्यते सुखी||३६||
सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः|
ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः||३७||
साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसम्मताः|
यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम्||३८||
असाध्याश्चापरे सन्ति व्याधयो याप्यसञ्ज्ञिताः|
सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्||३९||
सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति|
अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत्||४०||
साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः|
मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः||४१||
त एवापरिसङ्ख्येया भिद्यमाना भवन्ति हि|
रुजावर्णसमुत्थानस्थानसंस्थाननामभिः ||४२||
व्यवस्थाकरणं तेषां यथास्थूलेषु सङ्ग्रहः|
तथा प्रकृतिसामान्यं विकारेषूपदिश्यते||४३||
विकारनामाकुशलो न जिह्रीयात् कदाचन|
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||४४||
स एव कुपितो दोषः समुत्थानविशेषतः|
स्थानान्तरगतश्चैव जनयत्यामयान् बहून् ||४५||
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च|
समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत्||४६||
यो ह्येतत्त्रितयं ज्ञात्वा कर्माण्यारभते भिषक्|
ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति||४७||
नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः|
विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः||४८||
उत्साहोच्छ्वासनिः श्वासचेष्टा धातुगतिः समा|
समो मोक्षो गतिमतां वायोः कर्माविकारजम्||४९||
दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्|
प्रभा प्रसादो मेधा च पित्तकर्माविकारजम्||५०||
स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्|
क्षमा धृतिरलोभश्च कफकर्माविकारजम्||५१||
वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते|
कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्||५२||
दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्|
दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते||५३||
तत्र श्लोकाः-
सङ्ख्यां निमित्तं रूपाणि शोथानां साध्यतां न च|
तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान्||५४||
विधिभेदं विकाराणां त्रिविधं बोध्यसङ्ग्रहम्|
प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु||५५||
वीतमोहरजोदोषलोभमानमदस्पृहः|
व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः||५६||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयो नामाष्टादशोऽध्यायः||१८||

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Ok, Go it!