IMPORTANT NOTICE

ALL STUDY DATA UPLOAD SOON...

तस्याशितीयोऽध्यायः

 6.

तस्याशितीयोऽध्यायः



अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते|

यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्||३||

इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्|

तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च||४||

विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः|

आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते||५||

तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति||६||

वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति||७||

भवति चात्र-

आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्|

मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्||८||

शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली|

पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः||९||

स यदा नेन्धनं युक्तं लभते देहजं तदा|

रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति||१०||

तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान्|

औदकानूपमांसानां मेद्यानामुपयोजयेत्||११||

बिलेशयानां मांसानि प्रसहानां भृतानि च|

भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः||१२||

गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्|

हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते||१३||

अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्|

भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा||१४||

शीतेषु संवृतं सेव्यं यानं शयनमासनम्|

प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्||१५||

गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा|

शयने प्रमदां पीनां विशालोपचितस्तनीम्||१६||

आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः|

प्रकामं च निषेवेत मैथुनं शिशिरागमे||१७||

वर्जयेदन्नपानानि वातलानि लघूनि च|

प्रवातं प्रमिताहारमुदमन्थं हिमागमे||१८||

हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्|

रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्||१९||

तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते|

निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्||२०||

कटुतिक्तकषायाणि वातलानि लघूनि च|

वर्जयेदन्नपानानि शिशिरे शीतलानि च||२१||

वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः|

कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्||२२||

तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्|

गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्||२३||

व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्|

सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे||२४||

चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः|

शारभं शाशमैणेयं मांसं लावकपिञ्जलम्||२५||

भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा|

वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्||२६||

मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः|

स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्||२७||

शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः|

घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति||२८||

मद्यमल्पं न वा पेयमथवा सुबहूदकम्|

लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् ||२९||

दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले|

भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके||३०||

व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः|

सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः||३१||

काननानि च शीतानि जलानि कुसुमानि च|

ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः||३२||

आदानदुर्बले देहे पक्ता भवति दुर्बलः|

स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः||३३||

भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च|

वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः||३४||

तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते|

उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्||३५||

व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्|

पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत्||३६||

व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि|

विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये||३७||

अग्निसंरक्षणवता यवगोधूमशालयः|

पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः||३८||

पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा|

माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा||३९||

प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्|

लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्||४०||

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः|

तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति||४१||

तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्|

पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः||४२||

लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्|

शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये||४३||

तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्|

धाराधरात्यये कार्यमातपस्य च वर्जनम्||४४||

वसां तैलमवश्यायमौदकानूपमामिषम्|

क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्||४५||

दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्|

कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम्||४६||

हंसोदकमिति ख्यातं शारदं विमलं शुचि|

स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् ||४७||

शारदानि च माल्यानि वासांसि विमलानि च|

शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः||४८||

इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्|

उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते||४९||

देशानामामयानां च विपरीतगुणं गुणैः|

सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च||५०||

तत्र श्लोकः-

ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किञ्चन|

तस्याशितीये निर्दिष्टं हेतुमत् सात्म्य

मेव च||५१||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयो नाम षष्ठोऽध्यायः||६||

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Ok, Go it!