IMPORTANT NOTICE

ALL STUDY DATA UPLOAD SOON...

त्रिविधरोगविशेषविज्ञानीय विमानम्

4.

त्रिविधरोगविशेषविज्ञानीय विमानम्



अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
त्रिविधं खलु रोगविशेषविज्ञानं भवति; तद्यथा आप्तोपदेशः, प्रत्यक्षम्, अनुमानं चेति||३||
तत्राप्तोपदेशो नामाप्तवचनम्|
आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च|
तेषामेवङ्गुणयोगाद्यद्वचनं तत् प्रमाणम्|
अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति ; प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा चोपलभ्यते|
अनुमानं खलु तर्को युक्त्यपेक्षः||४||
त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं भवति, न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते|
त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते|
किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात्|
तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च; त्रिविधा वा सहोपदेशेन||५||
तत्रेदमुपदिशन्ति बुद्धिमन्तः- रोगमेकैकमेवम्प्रकोपणमेवंयोनिमेवमुत्थानमेवमात्मानमेवमधिष्ठानमेवंवेदनमेवं संस्थानमेवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवंवृद्धिस्थानक्षयसमन्वितमेवमुदर्क मेवन्नामानमेवंयोगं विद्यात्; तस्मिन्नियं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ज्ञायते||६||
प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्सुः सर्वैरिन्द्रियैः सर्वानिन्द्रियार्थानातुरशरीरगतान् परीक्षेत, अन्यत्र रसज्ञानात्; तद्यथा- अन्त्रकूजनं, सन्धिस्फुटनमङ्गुलीपर्वणां च, स्वरविशेषांश्च, ये चान्येऽपि केचिच्छरीरोपगताः शब्दाः स्युस्ताञ्छ्रोत्रेण परीक्षेत; वर्णसंस्थानप्रमाणच्छायाः , शरीरप्रकृतिविकारौ, चक्षुर्वैषयिकाणि यानि चान्यान्यनुक्तानि तानि चक्षुषा परीक्षेत; रसं तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत्, न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते, तस्मादातुरपरिप्रश्नेनैवातुरमुखरसं विद्यात्, यूकापसर्पणेन त्वस्य शरीरवैरस्यं, मक्षिकोपसर्पणेन शरीरमाधुर्यं, लोहितपित्तसन्देहे तु किं धारिलोहितं लोहितपित्तं वेति श्वकाकभक्षणाद्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम्, एवमन्यानप्यातुरशरीरगतान् रसाननुमिमीत; गन्धांस्तु खलु सर्वशरीरगतानातुरस्य प्रकृतिवैकारिकान् घ्राणेन परीक्षेत; स्पर्शं च पाणिना प्रकृतिविकृतियुक्तम्|
इति प्रत्यक्षतोऽनुमानादुपदेशतश्च परीक्षणमुक्तम्||७||
इमे तु खल्वन्येऽप्येवमेव भूयोऽनुमानज्ञेया भवन्ति भावाः|
तद्यथा- अग्निं जरणशक्त्या परीक्षेत, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दाद्यर्थग्रहणेन, मनोऽर्थाव्यभिचरणेन, विज्ञानं व्यवसायेन, रजःसङ्गेन, मोहमविज्ञानेन, क्रोधमभिद्रोहेण, शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण, भयं विषादेन, धैर्यमविषादेन, वीर्यमुत्थानेन , अवस्थानमविभ्रमेण, श्रद्धामभिप्रायेण, मेधां ग्रहणेन, सञ्ज्ञां नामग्रहणेन, स्मृतिं स्मरणेन, ह्रियमपत्रपणेन, शीलमनुशीलनेन, द्वेषं प्रतिषेधेन, उपधिमनुबन्धेन , धृतिमलौल्येन, वश्यतां विधेयतया, वयोभक्तिसात्म्यव्याधिसमुत्थानानि कालदेशोपशयवेदनाविशेषेण, गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां, दोषप्रमाणविशेषमपचारविशेषेण, आयुषः क्षयमरिष्टैः, उपस्थितश्रेयस्त्वं कल्याणाभिनिवेशेन, अमलं सत्त्वमविकारेण, ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्रायं द्विष्टेष्टसुखदुःखानि चातुरपरिप्रश्नेनैव विद्यादिति||८||
भवन्ति चात्र-
आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च|
अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः||९||
सर्वथा सर्वमालोच्य यथासम्भवमर्थवित्|
अथाध्यवस्येत्तत्त्वे च कार्ये च तदनन्तरम्||१०||
कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति|
अमूढः फलमाप्नोति यदमोहनिमित्तजम्||११||
ज्ञानबुद्धिप्रदीपेन यो नाविशति तत्त्ववित् |
आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति||१२||
तत्र श्लोकौ-
सर्वरोगविशेषाणां त्रिविधं ज्ञानसङ्ग्रहम्|
यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा||१३||
ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः|
भावांस्त्रिरोगविज्ञाने विमाने मुनिरुक्तवान्||१४||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः||४||
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Ok, Go it!